Suryakanya

Our mission is to address today's challenges through the wisdom of the ancient past

  • Connect with our Trust
home Vyanktesh Balaji Atharvashirsha

Vyanktesh Balaji Atharvashirsha

।।श्री व्यंकटेश अथर्वशीर्षम्।।

अथः श्री व्यंकटेश अथर्वशीर्षम्

ॐ नमस्ते श्री व्यंकटेशाय ।

त्वमेव प्रत्यक्षं ऋगसि।त्वमेव प्रत्यक्षं यजुरसि।

त्वमेव प्रत्यक्षं सामासि। त्वमेव प्रत्यक्षं अथर्वासी ।त्वमेव सर्वं छंदोसी ।ॐ अथ पुरुषो ह वै श्री व्यंकटेशोऽकामयत प्रजाः सृजेयेत् इति।

श्री व्यंकटेशाद्ब्रह्मा जायते । श्री व्यंकटेशाद्विष्णुर्जायते।श्री व्यंकटेशाद्रुद्रो जायते ।

श्री व्यंकटेशादिन्द्रो जायते।श्रीव्यंकटेशात्प्रजापतिर्जायते।

श्री व्यंकटेशादन्तःकरण-मनो-बुद्धि-चित्ताहंकाराः।

श्री व्यंकटेशो वै व्यानसमानोदानपानप्राणः।

श्री व्यंकटेशो वै श्रोत्रत्वक्चक्षुरसनानासा:।

श्री व्यंकटेशो वै वाक्पाणिपादोपस्थपायूनि।

श्री व्यंकटेशो वै शब्दस्पर्शरूपरसगन्धाः।

श्री व्यंकटेशो वै वचनादानगमनानंदविसर्गा:।

अथादित्याः श्री व्यंकटेशः । ब्रह्मा श्री व्यंकटेशः । शिवश्च श्री व्यंकटेशः।शक्रश्च श्री व्यंकटेशः ।

कालश्च श्री व्यंकटेशः ।दिशश्च श्री व्यंकटेशः । ऊर्ध्वंश्च श्री व्यंकटेशः।अधश्च श्री व्यंकटेशः । अन्तर्बहिश्च श्री व्यंकटेशः। द्यावापृथिव्यौ च श्री व्यंकटेशः।

श्री व्यंकटेश एवेद् सर्वम् । यद्भूतं यच्च भव्यम् ।

निष्कलोनिरञ्जनो निर्विकल्पोनिराख्यातः शुद्ध एकः श्री व्यंकटेशः न द्वितीयोऽस्ति कश्चित् । श्री व्यंकटेशाद्वायुर्जायते ।श्री व्यंकटेशात् भुमीर्जायते । श्री व्यंकटेशात् आपो जायते ।श्री व्यंकटेशात् ज्योतिर्जायते ।श्री व्यंकटेशात् व्योम दिशौ जायन्ते ।

श्री व्यंकटेशात् देवा जायन्ते । श्री व्यंकटेशात् वेदा जायन्ते । श्री व्यंकटेशो वा एष एतन्मण्डलं तपति। असौ श्री व्यंकटेशो ब्रह्मा

श्री व्यंकटेशाद् द्द्वादशादित्या रुद्र वसवः । सर्वाणि छन्दांसी श्री व्यकटेशात्प्रवर्तन्ते । श्री व्यंकटेशे प्रलीयन्ते । श्री व्यंकटेशात्प्राणो जायते मनः। सर्वेन्द्रियाणि च ।

ऋतं वच्मि । सत्यं वच्मि । आनंदमयो ज्ञानमयो विज्ञानमयः श्री व्यंकटेशः। नमः श्रिनिवासाय जगतपतये मृत्योर्मा पाहि ।श्री व्यंकटेशाद्भवन्ति भूतानि।श्री व्यंकटेशो नभांसि तु श्री व्यंकटेशे लयं प्राप्नुवन्ति यः श्री व्यंकटेशः सोऽहमेव च। ॐ ह्रां ह्रीं क्लीं ॐ नमः श्री व्यंकटेशाय स्वाहा ।

ॐ व्यंकटेशाय विद्महे  श्रीमन्नाथाय धीमहि तन्नः श्रीशः प्रचोदयात् ।ॐ लक्ष्मी व्यंकटेशाय श्रियै नमः । ॐ क्लीं ह्रीं ह्रां ॐ ।ॐ अराजिकाये विकटे गिरिं गच्छ शतान्वै गिरिं पीठस्य सद्भिस्तेsभीष्टवा साधयामसि।

यस्य स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेयः।

यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्तः । यस्य लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।यस्य जननं नोपलक्ष्यते तस्मादुच्यते अजः ।

एकैव सर्वत्र वर्तते तस्मादुच्यते एकः। एक एव विश्र्वरूपे तस्मादुच्यते नैकः ।

त्वमेव केवलं हर्ताऽसि । त्वमेव केवलं धर्ताऽसि ।

त्वमेव केवलं कर्ताऽसि । त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वं साक्षादात्माऽसि नित्यम् । त्वमेव सर्वं छंदोसि ।

ॐ नमःश्रीव्यंकटेशाय सर्वतो मां पाहि पाहि समंतात् ।


। फलश्रुति ।

इदम् अथर्वशीर्षं योऽधीते स श्री व्यंकटेश स्थानाय कल्पते ।अनेन व्यंकटेशम-अभिषिंचति।स विद्यावान् भवति ।

चतुर्वारं पठेद्यस्तु सध्यः पापैःप्रमुच्यते। चतुःसहस्त्रोत्तर षण्णवत्यावर्तनाद्यं यं कामधीयते।

उत्तरा-वर्तनात् यं यं काममधीयते। तं तमनेन साधयेत् ।

प्रती भृगु वासरे षोडशवारं अनश्नन् जपती स वाग्मी भवति ।

स ह्रदये तुलस्यर्चनात श्री सेवाधिकारी भवती।

यो निलोत्पलार्चनं करोति स सर्वराज्यपूज्यौ भवति।

यो मासमेकं कल्हारैरर्चयति स द्वितीय इव पक्षिराड्  भवति।

यः त्रिसन्ध्यं त्रिवारं पञ्चवारं वा जपति स मासेन लक्ष्मिवान भवति। द्विमासेन नरेंद्रत्त्वं प्राप्नोति।

त्रिमासाद् महदऐश्वर्य लभते लभते। षणमासाञछ्री श्रीव्यंकटेशस्य भाषणं भवति। एतद्गौप्यं आशिष्यायं नोपदेश्यम्।यद्यो मोहेन करोत्युपदेशं स मच्छत्रुर्भूत्वा पापीयान् भवति।ततोनिरये पतति तस्यगतिर्न स्यात्।

य एवं वेद।इत्युपनिषत्। हरिःओम तत्सत्।

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः इति ॥

ओम् तत्सत्

Suryakanya
Anturli, Jalgaon district